ऋग्वेदोक्तं लक्ष्मी
सूक्त
ॐ पद्मानने
पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि । विश्वप्रिये
विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।। 1।।
पद्मानने
पद्मऊरु पद्माक्षी पदमसंभवे । तन्मे भजसि पद्माक्षी येन सौख्यंलभाम्यहम् ।।2 ।।
अश्वदायि गोदायि
धनदायि महाधने । धनं मे जुषतां देवीसर्वकामांश्चदेहि मे ।। 3।।
पुत्रं पौत्रं
धनं धान्यं हस्तिअश्वादि गवेरथम् । प्रजानां भवसिमाता आयुष्मन्तं करोतुमे ।।4।।
धनमग्निर्धनं
वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो वृहस्पतिर्वरुणोधनमस्तु मे ।।5।।
वैनतेय सोमंपिब
सोमं पिबतु वृत्रहा । सोमंधनस्यसोमिनो मह्यं ददातु सोमिनः ।। 6।।
न क्रोधो न च
मात्सर्य न लोभो ना शुभामतिः । भवन्ति कृत पुण्यानांभक्तानां श्री सूक्त जापिनाम्
।। 7
।।
सरसिजनिलये
सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवन मूतिकरिप्रसीद
मह्यम् ।।8।।
विष्णुपत्नीं
क्षमां देवीं माधवीं माधवप्रियाम् । लक्ष्मींप्रियसखीं देवी नमाम्यच्युतवल्लभाम्
।।9।।
महालक्ष्म्यै च
विद्महे विष्णुपत्न्यै च धीमहि, तन्नो लक्ष्मीः
प्रचोदयात् ।। 10
।।
आनन्दः कर्दमः
श्रीदः श्चिक्लीत इति विश्रुताः । ऋषयश्चश्रियः पुत्राः मयि श्रीर्देविदेवता मताः
।।11
।।
ऋणरोगादिदारिद्रय
पापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तुममसर्वदा ।।12।।
श्रीयं
वर्चस्वमायुष्यंमारोग्यमानं मांविधाच्छोभमानं महीयते । धान्यं धनं पशुं
बहुपुत्रलाभं शतसंवत्सरंदीर्घमायुः ।। 13 ।।
ऋग्वेदोक्तं लक्ष्मी
सूक्त सम्पूर्णम् ।
આગળ શ્રી સૂક્ત
આગળ શ્રી સૂક્ત
શ્રી સૂક્ત
ॐ हिरण्य-वर्णां
हरिणीं,
सुवर्ण-रजत-स्त्रजाम्।
चन्द्रां
हिरण्यमयीं लक्ष्मीं,
जातवेदो म आवह।।
तां म आवह
जात-वेदो,
लक्ष्मीमनप-गामिनीम्।
यस्यां हिरण्यं
विन्देयं,
गामश्वं पुरूषानहम्।।
अश्वपूर्वां
रथ-मध्यां,
हस्ति-नाद-प्रमोदिनीम्।
श्रियं
देवीमुपह्वये,
श्रीर्मा देवी जुषताम्।।
कांसोऽस्मि तां
हिरण्य-प्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीं।
पद्मे स्थितां
पद्म-वर्णां तामिहोपह्वये श्रियम्।।
चन्द्रां
प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव-जुष्टामुदाराम्।
तां पद्म-नेमिं
शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि।।
आदित्य-वर्णे
तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः।
तस्य फलानि तपसा
नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः।।
उपैतु मां
दैव-सखः,
कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि
राष्ट्रेऽस्मिन्,
कीर्तिं वृद्धिं ददातु मे।।
क्षुत्-पिपासाऽमला
ज्येष्ठा,
अलक्ष्मीर्नाशयाम्यहम्।
अभूतिमसमृद्धिं
च,
सर्वान् निर्णुद मे गृहात्।।
गन्ध-द्वारां
दुराधर्षां,
नित्य-पुष्टां करीषिणीम्।
ईश्वरीं
सर्व-भूतानां,
तामिहोपह्वये श्रियम्।।
मनसः काममाकूतिं, वाचः सत्यमशीमहि।
पशूनां
रूपमन्नस्य,
मयि श्रीः श्रयतां यशः।।
कर्दमेन
प्रजा-भूता,
मयि सम्भ्रम-कर्दम।
श्रियं वासय मे
कुले,
मातरं पद्म-मालिनीम्।।
आपः सृजन्तु
स्निग्धानि,
चिक्लीत वस मे गृहे।
निच-देवी मातरं
श्रियं वासय मे कुले।।
आर्द्रां
पुष्करिणीं पुष्टिं,
सुवर्णां हेम-मालिनीम्।
सूर्यां
हिरण्मयीं लक्ष्मीं,
जातवेदो ममावह।।
आर्द्रां यः
करिणीं यष्टिं,
पिंगलां पद्म-मालिनीम्।
चन्द्रां
हिरण्मयीं लक्ष्मीं,
जातवेदो ममावह।।
तां म आवह
जात-वेदो लक्ष्मीमनप-गामिनीम्।
यस्यां हिरण्यं
प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरूषानहम्।।
यः शुचिः प्रयतो
भूत्वा,
जुहुयादाज्यमन्वहम्।
श्रियः
पंच-दशर्चं च,
श्री-कामः सततं जपेत्।।
લક્ષ્મી આરતી આગળ
લક્ષ્મી આરતી આગળ
લક્ષ્મી આરતી
ૐ જય લક્ષ્મી
માતા,
મા જય લક્ષ્મી માતા,
તુમકો નિશદિન
સેવત,
હર વિષ્ણુ વિધાતા, ૐ જય...
બ્રહ્માણી, રુદ્રાણી, કમલા,
તુ હી હે જગ માતા
સુર્ય ચંદ્રમા
ધ્યાવત,
નારદઋષિ ગાતા, ૐ જય...
દુર્ગા રૂપ
નિરંજનિ,
સુખ સંપતિ દાતા
જો કોઈ તુમકુ
ધ્યાવત,
અષ્ટ સિદ્ધિ ધન પાતા, ૐ જય...
તુ હી હે પાતાલ
બસંતી,
તુંહી હે શુભ દાતા
કર્મ-પ્રભાવ-પ્રકાશિની, જગનિધિ કી ત્રાતા, ૐ જય...
જીસ ઘર થોડી
બાસે,
જાહિ મે ગુણ આતા,
કર ન શકે સો કર
લે,
જો કર નહિ પાતા ૐ જય...
તુમ બિન જર ન
હોવે,
વસ્ત્ર ન હોય રાતા
ખાન-પાન કા વૈભવ, તુમ બીન કુણ દાતા, ૐ જય...
શુભ ગુણ સુંદર
યુક્તા,
ક્ષીરનિધિ જાતા
રત્ન ચતુર્દશ તો
તુમ બિન,
કોઈ ભી નહી પાતા, ૐ જય...
શ્રીલક્ષ્મીજી કી
આરતી,
જો કોઈ ગાતા
ઉર ઉમંગ અતિ
ઉપજે,
પાપ ઉતર જાતા, ૐ જય...
સ્થિત ચર જગત
રચાયે,
શુભ કર્મન લાતા
તેરા ભક્ત
મૈયાજી,
શુભ દ્રષ્ટિ પાતા, ૐ જય...
કનકધારા માટે આગળ જુઓ
કનકધારા માટે આગળ જુઓ
કનકધારા સ્તોત્ર
श्री
कनकधारास्तोत्रं
।। अङ्गं हरेः
पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥ मुग्धा
मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव
महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम
भुजङ्गशयाङ्गनायाः ॥ ३॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी
विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४॥
कालाम्बुदालिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव । मातुस्समस्तजगतां
महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥ प्राप्तं पदं प्रथमतः खलु
यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ६॥ विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं
मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दीवरोदरसहोदरमिन्दिरायाः ॥
७॥ इष्टाविशिष्टमतयोऽपि यया दयार्द्र- दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥ दद्याद्दयानुपवनो
द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । दुष्कर्मधर्ममपनीय चिराय
दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति
शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै
नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै
नमोऽस्तु रमणीयगुणार्णवायै शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु
पुरुषोत्तमवल्लभायै ॥ ११॥ नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२॥ नमोऽस्तु
हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै । नमोऽस्तु देवादिदयापरायै नमोऽस्तु
शार्ङ्गायुधवल्लभायै ॥ १३॥ नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि
स्थितायै । नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ १४॥ नमोऽस्तु
कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै । नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरितोद्धरणोद्यतानि मामेव
मातरनिशं कलयन्तु मान्ये ॥ १६॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसंपदः ।
संतनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥ सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्
॥ १८॥ दिग् हस्तिभिः कनककुंभमुखावसृष्ट- स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष- लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥ कमले
कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं
पात्रमकृत्रिमं दयायाः ॥ २०॥ देवि प्रसीद जगदीश्वरि लोकमातः कल्याणगात्रि
कमलेक्षणजीवनाथे । दारिद्र्यभीतिहृदयं शरणागतं माम् आलोकय प्रतिदिनं सदयैरपाङ्गैः
॥ २१॥ स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका
गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥ || इति श्रीमच्छङ्कराचार्यकृत श्री
कनकधारास्तोत्रं संपूर्णम् ॥
No comments:
Post a Comment